आर्यतारास्रग्धरास्तोत्र
आर्यतारास्रग्धरास्तोत्र ओं नमो भगवत्यै आर्यतारायै बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री- संपत्संपर्करागनातिचिररचितालक्तकव्यक्तभक्ती । भक्त्या पादौ तवार्ये करपुटमुकुटातोपभुग्नोत्तमाङ्गस् तारिण्यापच्छरण्यैर्नवनुतिकुसुमस्रग्भिरभ्यर्चयामि ॥ १ दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीकः किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः । श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीम् आलोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम् ॥ २ सर्वस्मिन् सत्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् । सामर्थ्यं चाद्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं दुःखीवाहं तथापि प्रतपति धिगहो दुष्कृतं दुर्विदग्धम् ॥ ३ धिग्धिग्मां मन्दभाग्यं दिवसकररुचाप्यप्रणुण्णान्धकारं तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः । रत्नद्वीपप्रतोल्याविपुलमणिगुहागेहगर्भे दरिद्रं नाथीकृत्वाप्यानाथं भगवति भवतीं सर्वलोकैकधात्रीम् ॥ ४ मातापि स्तन्यहेतोर्विरुवति बहुशः खेदमायाति पुत्रे क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः । त्वं त...